Wednesday, June 18, 2014

भाषाभ्यासः - कदा कृतम्


अहं ह्यः पाठम् अपठम्।
अहं ह्यः मध्याह्ने पुष्पम् आनयम्।
अहं ह्यः अपराह्णे तम् आह्वयम्।
त्वं ह्यः सायं फलं अखादः किम्।
सः ह्यः रात्रौ आम्रफलम् अक्रीणात्।
अहं परोह्यः प्रातः संस्कृतम् अपठम्।
अहं परोह्यः प्रातः सप्तवादने अपूजयम्।
अहं दिनद्वात् पूर्वम् आगच्छम्।
आवां त्रिभ्यः दिनेभ्यः पूर्वं ज्ञानम् अलभावहि।
चतुर्भ्यः दिनेभ्यः पूर्वं शीतम् अल्पम् आसीत्।
अहं पञ्चभ्यः दिनेभ्यः पूर्वं काशीम् अगच्छम्।
मया षड्भ्यः दिनेभ्यः पूर्वं श्लोकः पठितः।
मया सप्ताहात् पूर्वं पुराणं पठितम्।
मया मासात् पूर्वं गीता पठिता।
यूयं वर्षात् पूर्वं माम् अमिलत।
अहं गतसप्ताहे चन्द्रगृहणम् अपश्यम्।
सः गतमासे वृक्षात् अपतत्।
अहं गतवर्षे हरिद्वारे अवसम्।
गतसप्ताहे अस्मिन् समये अहं पायसम् अपचम्।
युवां गतसप्ताहे प्रातः पञ्चवादने कुत्र आस्तम्।
वयं गतसोमवासरे दिवा दशवादने अत्रैव आस्म।

-o-O-o-

No comments:

Post a Comment